Guruvashtakam - Sounds of Isha

Guruvashtakam

Sounds of Isha

00:00

09:55

Song Introduction

अद्यापि अस्मिन् गीतस्य सम्बन्धित सूचना उपलब्धा नास्ति।

Similar recommendations

Lyric

शरीरं सुरूपं तथा वा कलत्रं

यशश्र्चारु चित्रं धनं मेरुतुल्यं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

षडङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

क्षमामण्डले भूपभूपालवृन्दैः

सदासेवितं यस्य पादारविन्दं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

यशो मे गतं दिक्षु दानप्रतापा

जगद्वस्तु सर्वं करे यत्प्रसादात्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

न भोगे न योगे न वा वाजिराजौ

न कान्तामुखे नैव वित्तेषु चित्तं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किम्

शरीरं सुरूपं तथा वा कलत्रं

यशश्र्चारु चित्रं धनं मेरुतुल्यं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

षडङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

क्षमामण्डले भूपभूपालवृन्दैः

सदासेवितं यस्य पादारविन्दं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

यशो मे गतं दिक्षु दानप्रतापा

जगद्वस्तु सर्वं करे यत्प्रसादात्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

न भोगे न योगे न वा वाजिराजौ

न कान्तामुखे नैव वित्तेषु चित्तं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किम्

शरीरं सुरूपं तथा वा कलत्रं

यशश्र्चारु चित्रं धनं मेरुतुल्यं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

षडङ्गादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

क्षमामण्डले भूपभूपालवृन्दैः

सदासेवितं यस्य पादारविन्दं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

यशो मे गतं दिक्षु दानप्रतापा

जगद्वस्तु सर्वं करे यत्प्रसादात्

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

न भोगे न योगे न वा वाजिराजौ

न कान्तामुखे नैव वित्तेषु चित्तं

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किं

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु

गुरोरङ्घ्रिपद्मे मनश्र्चेन लग्नं

ततः किं ततः किं ततः किं ततः किम्

- It's already the end -